SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ गायत्रीध्यानवर्णम् ३१५६. त्रयस्त्रिंशद्धि अमरैः सेंद्रैः संसेविता भृशम् । सदाशिवस्वरूपेयमीश्वरस्याङ्गनाकृतिः ।।३।। सततं ब्रह्मविष्णुभ्यां समुद्रेश्चनमस्कृता । तस्मादियं द्विजश्रेष्ठा ध्येया जप्या च सर्वदा ॥३३॥ गायत्रीभक्तितस्तेषां भुक्तिमुक्तिफलप्रदा। एवं सर्वेश्वरी देवीं गायत्रीं वेदमातरम् ।।३४।। ध्यायञ्जपन् सर्वसुखाप्नोतीह परत्र च । ब्रह्महा वा सुरापी वा स्तेयी वा गुरुतल्पगः ॥३५॥ तद्योगी वान्यपापी वा यो वा को वा द्विजोत्तमः । देवीध्यानरतः साधं जपेन सहभक्तितः ॥३६।। तत्रैते पातकाः सर्वे विनश्यन्ति न संशयः । व्याघ्रादयो मृगाः क्रूराः वृश्चिकाद्याश्च जन्तवः ॥३७॥ ब्रह्मराक्षसपूर्वाश्च पिशाचा व्याधयश्च ये प्रेताग्रहाश्च निर्घाताः अप्यन्ये बद्धवैरिणः ॥३८॥ देवीध्यानरतं विप्रं न स्पृशंन्ति प्रमत्तितः । देवाश्च मुनयश्चान्ये सिद्धाः साध्यौ(घ्याश्च)च गुह्यकाः ३६ गंधर्वाप्सरसो यक्षाः किन्नरागरुडोगगाः। विद्याधरास्तथैवाऽन्ये भूताख्या भुविचारणाः ॥४०॥ सर्वे तु वशमायान्ति देवीध्यानरतस्य च । महानदीषु गिरिषु महावाते महानले ॥४१॥ महाविपिने(वने?) भयंनास्ति देवीध्यानरतस्य च । द्विजस्य जप्यं ध्येयं च न गायत्र्याः परंपरम् ॥४२॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy