________________
गायत्रीध्यानवर्णनम्
२१२७ सीतक्षामांबरधरां प्रसन्नेदुनिभाननाम् । सुगन्धां लिप्तसाङ्गी सुपुष्पस्रग्विभूषिताम् ॥१०॥ समस्ताभरणोपेतां स्वर्णयज्ञोपवीतिनीम् । दक्षिणे पंकजं शंख वामे चक्र महागदाम् ॥११॥ चतुर्हस्तेन बिभ्राणां धरादित्यो प्रदक्षिणाम् । एवं मध्याह्नसंध्यायां सावित्री द्विजसत्तमः ।।१२।। कृष्णां प्रौडा(ढा,वृषारुढ़ां एकवस्त्रां त्रिलोचनाम् । चतुर्भुजां जटानागकुंडलेनसुमंडिताम् ॥१३॥ व्याघवांबरधरां नानाभरणभूषिताम् । अक्षत्रजमहाशूलंडमरुंचकपालकम् ॥१४॥ चतुष्करेषु बिभ्राणां अधरादि प्रदक्षिणम् । एवं सरस्वतीसंज्ञां सायंकाले स्मरेद् द्विजः ।।१५।। सपवित्रां चतुर्हस्तां तिस्रो हेव्य इमा ध्रुवाः। त्रिमूर्तिरूपधारिण्यः सृष्टिस्थितिलयांशकाः ।।१६।। एवं त्रिषु च संध्यासु जपकालेऽर्कमंडले । गायत्री संस्मरेद्विप्रः सर्वान्कामानवाप्नुया(त)॥१७॥ पञ्चास्यानि यः पादाः षड्वागादिशबाहवः । नेत्राणि पंचदश च श्वेततक्रान्तिमत्तनुः ॥१८॥ प्रदक्षिणां ततः प्रत्यगूर्वाश्यानि(?) यथाक्रमम् । रक्तकृष्णसुवर्णाभः श्वेतज्योति निभानि च !।१६।। हुताशनवदास्यानि सुस्थिरत्वंत्तुतद्वयः । उत्संगे पृष्ठभागे तु कुक्षयःषट्प्रकीर्तिताः ॥२०॥