________________
अथ द्वादशोऽध्यायः
गायत्रीध्यानवर्णनम् अथ वक्ष्यामि गायत्र्याः ध्यानसर्वाघनाशनम् । सर्वाभीष्टप्रदं साक्षादिहलोके परत्र च ॥१॥ ध्यानं संध्यान्नये(सायन्तने) यत्र ब्रह्मविष्णुशिवात्मकम् । अन्यथा तु निजध्यानं प्रधानं च यथाक्रमम् ॥२॥ ध्यानं विना जपं सर्वं यत्नेनाऽपि कृतं वृथा। तस्माद्विजस्तु ध्यानेन जपं सह समाचरेत् ॥३॥ हंसस्थां कांस्यका रक्तां चतुर्वक्त्रां चतुर्भुजाम् । पद्मासन जटाचूडामष्टनेत्रां स्मिताननाम् ॥ ४॥ पीताम्बरप्रकटितां रत्नकुण्डलमण्डिताम् । दिव्यचंदनलिप्तांगां दिव्यपुष्पैरलंकृताम् ॥५॥ सर्वाभरणसंयुक्तां होमयज्ञोपवीतिनीम् । दक्षिणेऽक्षस्रजं कूर्च वामभागे सवं वरम् ॥ ६॥ चतुर्हस्तेन विभ्राणांदरण्येदिकप्रदक्षिणम् । प्रासंध्यायाःस्मरेदेवीं गायत्र्याख्यां द्विजोत्तमः ॥७॥ दक्षिणेऽक्षस्रजं कूचं नवं वामे कमंडलुम् । एवं वापि स्मरेदेवीं द्विजः पूर्वोक्तलक्षणाम् ॥ ८॥ दधतीं श्वेतरूपां तां शितवस्त्रां चतुर्भुजाम् । द्विनेत्राहिमकोटि....."त्रिवेष्टनाम् ।।६।