________________
३१५५
गायत्रीपुष्पाञ्जलिप्रकारः । अन्यूनमतिरिक्त वा तत्क्षमस्व ममेश्वरी। जगन्मये जगन्मातः जगज्जननकारणे ॥११२।। यदलीकं कृतं सर्व तन्मया(मम) क्षन्तुमर्हसि । मंत्रहीनं क्रियाहीनं भत्तिहीनं महेश्वरी ॥११३।। यत्पूजितं मया देवी परिपूर्ण तदस्तु मे। दत्वाऽमीभित्रिभिर्देव्याश्चुलकोदकमर्चकः ॥११४।। ततः प्रदक्षिणं भक्त्या तोषयेत्परमेश्वरीम् । पश्चादंण्डनमस्कारत्रयीकुर्याद् द्विजोत्तमः ।।११।। उत्थाय हस्तौ प्रक्षाल्य श्रीपादकुसुमं ततः । आत्ममूर्ध्नि च सद्भतया धृत्वा प्रक्षालयेत्करौ ॥११६।। ततः पुष्पांजलिं दद्याचरणेष्वाद्यविद्यया। ततः क्षमस्व देवी त्वं मां च रक्षेत्युदीर्य च । प्रणवेनाऽथ देवेशी सूर्यविम्वे प्रवेशयत् ।।११७।। (ततः प्रसन्नवदने ?)गायत्र्यांख्यां महो(हे)श्वरी । सद्भक्त्याऽभ्यर्चयेद्विप्रो विमुक्तः सर्वपातकैः ।।११८।। सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम। पिहत(विधिना? तत्सकलंलब्ध्वा यात्यन्तेशाश्वतं पदम् ११६ विषुवायनसंक्रांतिग्रहणेषु च वैधृती। व्यतीपाते महापूजामशक्तश्चेत्समाचरेत् ॥१२०।। एतद्रहस्यं परमं एतद्देव्यामहार्चनं ।
सत्कुलाय सुशीलाय वेदाध्यायिद्विजन्मने ।।१२।। ॥ इति श्रीभारद्वाजस्मृतौ पूजाध्यायकथनं नाम एकादशोऽध्यायः।।