________________
गायत्रीपूजनविधानम् आपोहिष्टादिभिर्मत्रै त्रिभिःप्राक् स्नापनं स्मृतम्। . हिरण्यवर्ण इत्याद्यैश्चतुर्भिःस्नापनं स्मृतम् ।।६।। पवमानानुवाकेन न(स्न) पनं च तृतीयकम । एवं त्रिः स्नाय्यमनुभिः एतैरप्याद्यविद्यया ॥२॥ समस्तयाऽथव्याहृत्या परिपिंचेत्प्रदक्षिणम् । दद्यादाचमनं देव्याः स्नानं प्रत्यात्मविद्यया ॥६।। तथैवसाक्षतं पुष्पं अवास्यांध्रिपु च द्विजः । ततः पूर्वाचिते पीठे स्थापयेस्थानपीठतः।।१४।। ततः पुष्पांजलिं दत्वा नमस्कृत्यात्मविद्यया । ततः पूर्वस्वलाद्यादि त्रितयं क्रमशोऽर्चयेत् ।।६।। दद्यात्पाद्यं पदान्तेपुमुखेष्वाचमनिय्य(नीय)कम । अघं पंचसु शीर्पषु मूलमंत्रण मंत्रवित् ॥६६ ततो वस्त्रं ब्रह्मसूत्रं दत्वाऽऽचमनमर्पयेत् । गंधपुष्पाक्षतरेवमर्पयेदात्मविद्यया ।।६७|| ततो नानाविधैः पुष्पैः सुगंधैः कुसुमादिभिः । यथेष्टं पूजयेदेवी यथानयनवल्लभम् ।।६।। ततो धूपं ततो दीपं दद्यात्पुष्पांजलिं ततः । सौवर्ण राजते शोल्वकांचने भाजने शुभ ॥६॥ नापूपघृतनिष्पन्नं परमान्नं सशर्करम् । दत्वाऽऽत्मविद्यया प्रोक्ष्य पुष्पं तदुपरि क्षिपेत् । ततोमंत्रासनस्योर्ध्व तत्स्थाप्यामृतमुद्रिकाम् ॥१००।। १६८