________________
गायत्र्यापूजाविधानकथनम् ३१ ४६ स्वस्ति गंदादिभिभक्त्या सहनिभिरथार्चयेत् । एवमेताः समभ्यर्च ततो वेदास्समर्चयेत् ॥४७॥ ऋग्वेदंतद्वहि प्राच्यां यजुर्वेदं तु दक्षिणे । सामवेदं तु वारुण्यांअथर्वाख्यं तथोत्तरे ॥४८॥ पुराणाद्यकथात धर्मशास्त्राण्यनुक्रमात् । अमिरक्षोनिवेशास कोणेषु च समर्चयेत् ।।४।। निरुक्तं ज्योतिषं शिक्षा कल्पव्याकरणं तथा । छंदः सूत्राणि शाखाणि पूर्वादिषु समर्चयेत् ॥५०॥ ततः पूर्वादि दिक्षादौ विधीक्षु च यथाक्रमं । भत्त्यार्चयेद्वसूनष्टौ चंदनप्रमुखैत्रिभिः ।।५क्षा धरः सोमौनिलश्चैव प्रभासौध्रुवसंक्षकः । आपः प्रत्यूषसंज्जिश्च वषोत्कारयिति स्मृतः ॥५२॥ ततस्तुदद्वहिर्देशे रुद्रानेकादश क्रमात् । .. सद्भावभक्तिसहितः यजेस्त्रीतद्विजसत्तमः ॥५३॥ महादेवः शिवोरुद्रः शंकरो नीललोहितः । यी(ई)शानो विजयो भीमो देवदेवोभवोहरः॥५४॥ कपालिसंञ्जिइत्येते रुद्र एकादश स्मृताः । पूर्वादिषु त्रिकाष्टासु रुद्रास्त्रीस्त्रीननुक्रमात् ॥५।। रुद्रौद्यौउत्तराशायमर्चयेच्चंदनादिभिः । ततः प्रागादिकाष्टासु यजेद्वादश भास्करान् ॥५६॥ त्रींस्त्रीन्यथाक्रमेणैव तद्वाह्य चंदनादिभिः। वैकर्त्तनोविवस्वांश्च मार्तण्डं भास्करो रविः॥७॥