________________
गायत्र्यापूजाविधानकथनम् ३१४७ तथाभिमंत्रणं दिक्षु रक्षणंचाध कारयेत् । तानिद्विधा विभज्याथ समीचीनांशमेतयोः ॥२॥ देव्यर्थं परिवारार्धं इतरांशमिति स्मरेत् । परिवारांशकद्रव्यैः यजेतात्मानमर्चकः ॥२६॥ गंधपुष्पाक्षतैधूप दीपाभ्यां चोद्यविद्यया । तत्पात्रे तोयमुत्सृज्य पुनंप्पत्रेण तेन च ॥२७|| आदाय भांडसलिलं चतुष्पात्राणि पूरयेत् । अर्ध्याचमन पात्राणं पात्राणि त्रीणिचेतरत् ॥२८॥ सामान्यामृतमित्येवं उक्त पात्र चतुष्टयं । ततः सलिलसंस्कारं यथापूर्वं समाचरेत् ।।२१।। प्रक्षालनार्थं सलिल पात्रेप्रागेव पूरयेत् ।। अरप्रक्षालनार्थत्वादन्यसंस्कारणं न हि ॥३०॥ सामान्याचमानााणं पाद्यक्षालनयोस्तथा । पात्राणिस्थापयेत्प्रत्यगदिप्रागवसात्तिकं ।।३।। ततो गंधाक्तपुष्पेन पीठमध्ये सरोरुहं । संविख्यकूर्चे तन्मध्ये न्यसेद्धर्मानुदच्छिखं ॥३२॥ ततः पीठस्य नैमृत्यां पद्म संलिख्य पूर्ववत् । गंधादिभिस्त्रिभिदेव अर्चयेद्गणनायकं ॥३३।। यी(ई)शानदिशिपीठस्य लिखितांभोरहोपरि । ततो गंधादिभिर्मा क्षेत्राधिपतिमर्चयेत् ।।३४।। पश्चादधस्तात्पीठस्य चंदनप्रमुखैस्त्रिभिः। आधारशक्तिं संपूज्य तदूर्ध्व कूर्ममर्चयेत् ।।३।।