________________
३१४६
भारद्वाजस्मृतिः तत्पन्नस्यवहिदेव्या स्नानस्थानं हरेर्दिशि। तत्रैवस्थापयेत्पीठं नानार्थ द्विजसत्तमः ॥१४॥ पीठं तन्मध्यमेस्थाप्य वस्त्रमाछाद्य तत्र च । ततस्तस्यसमीभागे कुशकूचासनोपरि ।१।। स्वाचार्य पूज्य तद्भक्त्या चंदनप्रसवाक्षतैः । नमस्कृत्य ततः कुर्यात्प्राणायाम त्रयं बुधः ॥१६॥ ऋषिश्छंदो देवताश्च वर्ण तत्वान्यजुक्रमात् । विनियोगं च संस्कृत्वा न्यासं कुर्यादनंतरं ।।१७।। करन्यासं पुराकृत्वा गेहन्यासमथाचरेत् । अंग्गन्यासं ततः कुर्यादेवंन्यास विधौक्रमः ॥१८॥ ततो भांडजलेकुचं चंदनादित्रयं पुनः । दत्वामृताक्षरान्यश्च संस्पृशा द्विजसत्तमः ।।१६।। गायत्र्यासप्रणव व्याहृतितितयाव्यया । अष्टकृत्वो येत्ततो विप्रमुद्रयाच्छादनाख्या ॥२०॥ पूर्वादिषु महादिक्षु विदिक्षु परिचक्रमात् । अस्त्रेणरक्षणं कुर्यातद्विच्छेदनमुद्रया ।।२।। ततस्तज्वलमादाय पात्रेणास्वस्यपूर्वतः । सन्नाप्यजलसंस्कारं यथापूर्व समाचरेत् ।।२२।। ततस्तद्वारिकूर्चेन समंतात्सकलेवरं । मूर्धादिपादपर्यंत्तं प्रोक्षयेन्मूलमुद्रया ॥२३।। स्नानद्रव्याणि च तथा ततः संप्रोक्षयेद्विजः । द्रव्याणि चंदनादीनि त्रिण्यब्धिः संस्मृतो यदि ॥२४॥