________________
अथ नवमोऽध्यायः
गायत्र्यासाधनक्रमवर्णनम् अर्थतस्याः प्रवक्ष्यामि गाया साधनक्रम । न साधितं य आमंत्रं प्रयोगो न फलप्रदः ॥ १॥ तस्माद्दिद्युक्तमार्गेण साधयित्वा द्विजोत्तमः । ततः प्रयोजयेत्मंत्रः अभिष्टफलदं भवेत् ॥२॥ ऋषीन्छंदांसि देवानश्च वर्णनास्तत्वानिशक्तितः । मुद्राश्च विनियोगं च वीजशक्त्यासनानि च ॥३॥ मानंकालं च तद्ध्यान यथावद् गुरुवक्त्रतः । अधिकृत्या ततो विप्रा मंत्रमेतत्पुरश्चरेत् ॥ ४॥ शिरोब्रह्म शिखारुद्रेः विष्णुर्ह दयसंयुतः। उपायने विनियोगो गोत्रसाख्यानश्च तु॥५॥ ज्ञात्वैतानि शुचिभ्यानि शुद्धविक्षासनः सकृत् । यत्रकालाप्लवोमृत्युः जपे द्वादशलक्षकं ॥६॥ कृतादिश(क)लिपर्यन्तं क्रमाल्लक्षत्रियंत्रयं । युगं प्रत्येवमारोप्य पुरुश्चरणमाचरेत् ॥ ७॥ पुरश्चरणमेतद्धि गाया परिकीर्तितं । एकं द्वित्रिचतुः पंचषट्सप्ताष्टानवोपरि ॥ ८ ॥ दशाननक्रमेणैव शतंदशवतस्मृतं । तथा सहस्रमयुतं लक्षंचेति यथाक्रमं ॥६॥