________________
३ १३०
भारद्वाजस्मृतिः परिस्तीथतन्मध्ये ततः कूचं विनिक्षिपेत् । ततः प्रक्षाल्यचरणावाचम्य च यथाविधि ॥५६॥ उदङ्मुखः प्रसन्नः सन् उपविश्य कुशासने । प्राणानां संयमं कृत्वा प्रतिष्ठाथं जपस्रजः ॥५७॥ ततः पुराणाह संकल्पं द्विजन्मानुज्ञया चरेत् । ततोविद्युक्त मार्गेण कुर्यात्पुण्येहवाचनं ॥५८।। प्रक्षालयेततोमालां पुण्याह कलशोदक। ततोभिषेचयेत्पञ्चगव्यैदिक्षुरसेन च ॥५६।। मधुना कुशतोयेन स्नाप्य संस्कृत्य बुद्धिमान् । गोमूत्रं गोमयंक्षीरं दधिसर्पिष्यमानि च ॥६०॥ पंचगव्यानिमुनयः प्रवदंति मनीषिणः । प्रिहिद्रोणेन कृत्वाघमंडलं चतुरश्रकं ॥६१॥ तन्मध्ये पद्यमालिख्य साष्टपत्रं सकर्णिकं । पूर्ववन्मंडलंदर्भः परिस्तिर्याथमध्यमे ॥६२॥ कुशकुर्चक्षिपेधीमान् प्रागग्रंचोदगग्रकं । लोहितः सदृढ़स्मिग्धः प्रस्थतोय प्रमाणकः ॥६३।। कलशः पंचगव्यादि द्रव्याणां समुदाहृताः । असिता लोहितापीता धवला कपिला क्रमात् ॥६४॥ गोमूत्रगोमयक्षीर दध्याज्यानामिह स्मृताः । व स्ववर्णयुतालाभे लब्धगव्यानि वा हरेत् ॥६५।। तत्रापि दोषदुष्टानि परित्यक्त्वा शुभानि चेत् । आहारवशजीर्णाया रोगाक्षिणवत्सका ॥६६॥