________________
जपमालायाःविधानकथनम् ३१ २६ एतद्वदनमित्येवं संकल्प्य घटयेवुधः । कुशमालाकृतौ किंञ्चिद्विशेषात्रैव कथ्यते ॥४॥ सत्कुशान्विधिनाहृत्य तीव्रशुल्भं प्रकृत्य च । स्वेष्टसंख्यामणीग्रंथिं कुर्यानेत्रयं दृढ़ ॥४६॥ ततोमाला शिरोग्रंथिं प्रकुर्वीत यथापुरा। कुशाक्षमालिकामेवं कृत्वावत प्रकल्प्य च ॥४७॥ सगृहितद्विज श्रेष्ठैः सर्वथा जपकर्मणे । स्त्रिवतामंत्रअपे स्त्रिकुशाक्षस्रगुप्तमा ॥४८॥ सिंदेवता मंत्रजपेखितदर्भाक्षमालिका । एवं ज्ञात्वा जपेतेति क्रमादसृजाद्विजः ॥४॥ प्रणवस्य व्याहृतीनां गायाश्च जपेभृशं । श्रेष्टाकुशाक्षमालास्यात्समस्तानां जपस्रजां ॥५०॥ सूर्यक्षेत्रेदशैतेषां मंत्राणां जपकर्मणि । रक्तांभोरुहबीजाक्षमालिका प्रवरा स्मृता ॥५॥ वक्ष्याम्यथाक्षमालायाः प्रतिष्ठाविधिमुत्तमं । या प्रतिष्टाक्षमालायाः सासमस्त फलप्रदा ।।२।। अप्रतिष्ठितमालाय सा जपे विफला स्मृता । तस्मात्प्रतिष्ठा कर्त्तव्या जपस्य फलमिच्छता ॥५३॥ द्विजाविधियथस्नात्वा प्रतिष्ठास्नानमीप्सितं । तत्स्थाने मंडलं कुर्यादिहिभिश्चतुरश्रकं ॥५४॥ तन्मध्ये तु विधित्पद्म अष्टव्रतं सकर्णिकं । पूर्वादिदिक्षुपरितः कुशैश्च प्रागुदुक्रकैः ॥५५॥