SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ जपमालायाः विधानकथनम् उपस्थाय महादेवं देवदेवं दिवाकरं । कुर्वीत प्रणतिं भूमौ मूर्धानेनैव मंत्रतः ॥ ३ ॥ ॐ वषट्काराय शांताय कारणत्रय हेतवे । निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ॥ ४॥ नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे । विधानं जपमालायाः प्रवक्ष्यामि यथाक्रमं ॥ ५ ॥ जपो विशेष फलदः यो जपे जपमालया । तस्मात्सर्व प्रयत्नेन जपमालां यथाविधि ॥ ६॥ संध्याद्यानंत्तरं विप्रः जपेत जपमालया । जपमालामणिस्तेषां लक्षणानि ततोविधिः ॥ ७ ॥ जपमालाविशेषश्च कथ्यते च यथाक्रमं । अपत्यजीवखंखार्क प्रवालमणिमौक्तिकाः ॥ ८ ॥ सरोजबीजगाग्गेय कुशरुद्राक्ष संज्ञिका । दशैते जपमालायां मणिकण्युदीरिताः ॥ ६ ॥ एकस्मादधिकस्वेकः फलेनाभिहिता अमी । अंग्गुलीभिः कृतजपः क्रियातावानिति स्मृतः ॥१०॥ रेकाभिरेकोष्ठाउक्तः तेकस्तुजपिनेदश ? | शंखेरेकगुणं तद्वत्स्फटकाक्षिश्चविभ्रमैः ॥ ११॥ एक सहस्रमणिभिः एकोदशसहस्रकः । लक्षयुक्ताफलैरेकः कोटिरेकोव्जवीजकैः ॥१२॥ हैमैरेकादशकोटि शतकोटिस्तथा कुशैः । अनंतमेकोरुद्राक्षैः एवमुक्तं फलं क्रमात् ॥ १३॥ ३१२५
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy