________________
३१ १४
भारद्वाजस्मृतिः स्वस्यांग्गुष्ठेन्यसेद्वर्णन्प्रणवेन पृथक् पृथक् । इत्येवमेतत्कथितं करंन्यासं यदौर्धतः ॥७॥ कृत्वासहसनंन्यासमधुकुर्या द्विजोत्तमः । अंग्गुष्ठ गुल्फजंघासु जानूरुशमलाद्वसु ॥७२।। वृषणेकटिनाभ्योश्चाजठरस्तनहृत्स च । कंठास्यतालुकानानुदृग्भूमध्यांग्गकेषु च ॥७३।। प्रारदक्षिणोत्तरप्रत्यगूर्ध्वषुशिरसः क्रमात् । चतुर्विंशत्यक्षराणीतदादीनिस्वविग्रहो॥७४॥ चतुर्विशतु देशेषु प्रोक्त ध्वेषु प्रविन्यसेत् । पापघ्रमुपपापघ्नं महापातकनाशनं ॥७॥ दुष्टाम्रग्रहरोगनं भ्रूणहत्याघनाशनं । अगम्यगमनागनं अभक्ष्यास्वादनाद्यहं ॥७६।। ब्रह्महत्याघहरणं नृहत्यापविनाशनं । गुरुस्तीगमनागनं ग्रामकूर कृतापहृत् ।।७।। पितृमातृवधाघन पूर्वजन्माघनाशनं । दुष्टपावसमूहान त्रिविक्रमपदप्रदं ।।७।। पदं पदं महेशस्य पद्माक्षस्यपदप्रदं । विधेप्पदप्रदं ब्रह्म विष्णुरुद्रादि संस्तुतं ॥७६।। आदित्येतन्महः साक्षात्परब्रह्म प्रकाशकं । चतुर्विंशत्यक्षराणां फलमुक्त पथक् पृथक् ॥८॥ न्यस्याक्षराणि स्वस्यतनौस्मरेत्तत्तत्पलं भवेत् । उत्तमक्षरविन्यासं अंग्गुष्ठादिशिरोवधि ॥८॥