________________
__ भारद्वाजस्मृतिः आदौ यः सर्ववेदानां उच्चार्यः प्रणवो हि सः । भूरादयोत्र कथिताः संत्तिचंदसि सप्त च ॥३७॥ यस्यतत्सवितुपूर्व तदंतं च प्रचोदयात् । तस्मादयं प्रकथितः मंत्रः सर्वागमेष्वपि ॥३८॥ पवित्रवत्तइत्यस्मिन् सूक्त देयुजुरागमे । नतामियंनित्यस्मिंच मंत्रस्यश्चंदसिस्पुटं ॥३॥ ॐ मापो ज्योतिरित्यादि भूर्भुवः सुवरोमिति ! सर्वशृतिशिरोगृह्यमेतद्गायत्रिया स्मृतां ॥४०॥ एतद्रहस्यं गायत्र्याः शिरः सप्तदशाक्षरं । परब्रह्मत्यभिहितं वेदेवाजसनिय्यके ॥४|| ततः संकल्पयेत्प्रातः संध्योपास्तिकरोति यः। इति स्वचेतस्मरणं यः संकल्पस्तदुच्यते ॥४२।। आपोहिष्ठादिभिर्मत्रैः त्रिभिः संमार्जयेततः । सिंधुद्वीपभृषिश्चंदो गायिच्यापोहि देवताः ॥४३।। मार्जने विनियोगस्तु सूर्यश्चेति जलं पिवेत् । अस्यानुवाकस्य ऋषिः छंदो गायत्रमंशुमान् ॥४४॥ देवता विनियोगोपांपाने समुपवेशयेत् । आत्मानं प्रोक्षयेत्पश्चात् दधिक्रावुण्न इत्र्यूचा ॥४॥ आपोहिष्ठादितिसृभिः ऋग्भिश्च सकुशैर्जलैः । दधिक्रावुण्नमंत्रस्य बामदेवऋषिर्मनोः ॥४६॥ छंदोनुष्टुग्विश्वदेवाः देवतापश्चवास्मृता । ततोपसव्यं व्याहृत्या वा समस्तया ॥४७॥