________________
३१०८
भारद्वाजस्मृतिः प्रणवं व्याहृतिः सप्तगायत्रिं सिरसासहा । त्रिः पठेदायतः पाणः प्राणायामः स उच्यते ॥१५॥ सप्तव्याहृति पूर्वी तां आद्यंत्तं प्रणवाहृदा। जपेद्वादश गायत्रि एकोयं प्राणसंयमः ॥१६।। अशक्तास्यात्समुदितः प्राणायामो द्विजन्मनां । वालस्यचेतरेषां तु प्रशस्तः प्रथमोदितः ।।१७।। दक्षिणाघ्राणरंध्रेण रेचयेत्सर्वकर्मसु । प्राणायामेन वामेन स्वरंध्रेण च पूरयेत् ॥१८॥ प्रायशोखिलमंत्राणां ऋषिश्चंदोधिदैवताः। विनियोगं च संस्मृत्वा ततो मंत्राः समुच्चरेत् ॥१६।। इत्येवमुक्तो विधिवज्जपः कर्मणि सूरिभिः । व्यक्तोपांशुश्च कंठोष्टैमनस्सापिय॑नुक्रमात् ॥२०॥ पार्श्वस्थितजनैश्रोतुं य उच्चारः परिस्घटः। स्पस्यश्रोतुं परीसृट उच्चारो जपकर्मणि ॥२१॥ यो सा उपांशुरित्युक्त जपयज्ञपरायणैः । य उच्चारः सविद्वद्भिः कंठोष्ठक इतिस्मृतः ॥२२॥ मंत्राक्षराणि मनसाचिंत्तयन्नप्यथक्रमात् । पृथक्पृथक्तदुचारो मानसाख्य इति स्मृतः ॥२३॥ व्यक्त एकगुणसस्मादन्योदशगुणाधिका। कंठोष्टकश्शतगुणः तत्सहस्रगुणोदिकः ॥२४॥ पुरस्थात्प्रणवोच्चारः मंत्राणां सर्वदा स्मृताः। सर्वकर्मसु सर्वत्रापरेषां परमर्षिभिः ॥२५॥