SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ ३१०० भारद्वाजस्मृतिः # सर्वाम्गुलीभिरीशस्य मूर्धानं प्रीतये स्पृशेत् । अंगुष्ठाङ्गुलीभिस्तुष्ट्य जिष्णो स्पृशेद्रजौ (१) ||३२|| कर्मावसाने कर्मादौ देवमाचमनं द्विजः । कुर्यात्स्वकर्मसिध्यर्थं सर्वदा सर्वकर्मसु ||३३|| ताम्रचर्माश्वबालांबु नारिकेलाश्मपत्रकी । उपस्पृशेत्स्वहस्तरमै रेतैरपि विचक्षणः ||३४|| ब्रह्मयज्ञे विशेषोस्ति किंचिदाचमनक्रमे । प्रवक्ष्यते तदेतद्धि तत्कर्मफलसिद्धये ||३५|| पानत्रयं यथा पूर्वं तथा द्विः परिमार्जनं । उपस्पृश्य शिरश्चक्षु नासिकाद्वितयं तथा ॥३६॥ श्रोत्रद्वयं च हृदयं पूर्वोक्तविधिना लभेत् । एवमाचमनं प्रोक्तं ब्रह्मयज्ञे महर्षिभिः ||३७|| स्नानपानक्षुतस्पाप होमभोजनकर्मसु । अध्वोपसर्पणे मूत्रविदुत्सृष्टौ द्विराचमेत् ||३८|| जपेश्मशानाक्रमेण परिधान्येन वासिनः । चत्वाराक्रमणे चैव द्विजातिद्विरुपस्पृशेन ॥ ३६ ॥ विनाविध्युक्तमार्गेण यो द्विजो नित्यमाचरेत् । अनाचांतः स एवस्यादशुद्धयितिभाषितः ||४०|| एवमाचमनस्योक्तं विधानं श्रुतिचोदितं । एतद्धेयं द्विजश्रेष्ठैः अनुष्ठानादिसाधकैः || ४१|| ॥ इति भारद्वाजस्मृतावाचमनविधिर्नाम चतुर्थोध्यायः ॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy