________________
३०८६
भारद्वाजस्मृतिः इति वुष्टो (पृष्ठो) भरद्वाजस्तैर्महामुनिभिर्मुनिः । तान्प्रत्युवाच धर्मात्मा सन्तुष्टहृदयो भृशम् ॥ ८॥ पृष्टा युष्माभिरधुना याः क्रियास्ता महर्षिभिः । यथा क्रमेण कथ्यन्ते सन्ध्याप्रणतिपूर्विकाः ॥६॥ नित्यानुष्ठानरहितैर्द्विजैरधिकृतागमाः। यज्ञाः क्रतुश्च विधिवन्न भवन्ति फलप्रदाः ॥१०॥ तस्मात्सर्वप्रयत्नेन शुचि ( ) भूत्वा द्विजोत्तमः । अनुष्ठानम्प्रकुर्वीत प्रत्यहं शास्त्रचोदितम् ॥१।। धर्मशास्त्रेषु सर्वेषु समस्तेष्वागमेषु च। सारमुद्धत्य वक्ष्यामि शृणुध्वमृषयोऽनघाः ॥१२॥ शास्त्रायणमिदं श्रेष्ठमध्येयं श्रद्धया सह । शे पूर्धिमिः(१)द्विजैः काममनुष्ठानादि साधनम् ।।१३।। शास्त्रावतारो दिग्भेदः मलमूत्रपरिच्युतिः । शौचमाचमनं दन्तधावनं स्नापनं ततः ॥१४॥ सन्ध्या प्रणामश्च जपः ब्रह्मयज्ञश्चतर्पणम् । औपासनं वैश्वदेवं महायज्ञचतुष्टयम् ।।१५।। भोजनं शयनं ध्यानं महाध्यानञ्च पूजनम् । पूजा द्रव्यं जपलक्ष(?) कलशं च क्रिया अपि ॥१६।। यज्ञोपवीतञ्च कुशाः प्रणवो व्याहृतिस्ततः । साधनं प्रायश्चित्तञ्च क्रमोऽयं शास्त्रसंग्रहः ॥१७॥ दिग्()निर्णयं समारभ्यो प्रायश्चित्तावधि क्रमात् । स पञ्चविंशत्याध्यायं धर्मशास्त्रं ब्रवीमि वः ॥१८॥