________________
॥श्रीगणेशाय नमः।
* भारद्वाजस्मृतिः *
प्रथगोऽध्यायः भारद्वाजम्प्रति भृग्वादिमुनीनां सन्ध्यादिप्रमुखकर्मविषये प्रश्नः
हेमाद्रिशिखरे रम्ये सुखासीनं महाजनम् । भरद्वाजं मुनिश्रेष्ठं सर्वविद्यातपोनिधिम् ॥१॥ पुण्यकृति पुण्यशीलं ब्रह्मनिष्ठं जितेन्द्रियम् । तमासाद्य मुनिश्रेष्ठः भृावाद्या मुनिपुङ्गवाः॥२॥ भृगुरत्रिर्वशिष्ठश्च शाण्डिल्यो रोहितः क्रतुः । हरितो गौतमो गर्गः शङ्खः कालातपोऽङ्गिराः ॥३॥ मार्कडेयश्च माण्डव्यः कपिलो नारदः शुकः । जमदग्निर्याज्ञवल्क्यो विश्वामित्रः पराशरः॥४॥ एते वाऽन्येऽपि मुनयो धर्मज्ञा धर्मतत्पराः । सर्वोपचारैः सम्पूज्य वचनञ्चेदमब्रुवन् ॥५॥ भगवन्सर्वधर्मज्ञ सर्ववेदार्थपारग। सर्वशास्त्रार्थतत्त्वज्ञ सर्वसत्कर्मकोविद ॥ ६ ॥ सन्ध्यादि प्रमुखाः सर्वा नित्यनैमित्तिकाः क्रियाः। यास्ता द्विजौधिभिः(द्विजादिभिः) कार्या कथन्नो वक्त मर्हसि