________________
३०८४
आङ्गिरसस्मृतिः ब्राह्मणा एव च क्षेत्रं ब्राह्मणा एव दैवतम् । ब्राह्मणानां प्रसादेन सूर्यो दिवि विराजते ॥१०॥ . न ब्राह्मणसमं क्षेत्रं न ब्राह्मणसमोऽनलः । विधिर्न ब्राह्मणादूर्ध्व न देवं ब्राह्मणात्परम् ॥११॥ जपतां जुह्वतां चैव यच्छतां च सतामपि । क्षेत्रोऽग्नेस्तु सुसंभूतो ब्राह्मणोऽद्य विशिष्यते ॥१२॥ न स्कन्दते न व्यथते न विनश्यति कर्हिचित् । वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥१३॥ देवतापितृभूतानां काचिद्भवति कस्यचित् । ब्राह्मणे देवताः सर्वाः स च सर्वस्य देवता ॥१४॥ यो हि यां देवतामिच्छेदाराधयितुमव्ययम् । सर्वोपायप्रयत्नेन तोषयेद्ब्राह्मणान् सदा ॥१२॥
समस्तसंपत्समवाप्तिहेतवः
समुत्थितापत्कुलधूमकेतवः। अपारसंसारसमुद्रसेतवः
पुनन्तु मां ब्राह्मणपादपांसवः ॥१६॥ इत्याङ्गिरसधर्मशास्त्रे कृच्छादिस्वरूपकथनं नाम
द्वादशोऽध्यायः । इत्युत्तराङ्गिरसम् इत्याङ्गिरसस्मृतिः।