________________
द्वादशोऽध्यायः
कृच्छ्रादिस्वरूपकथनम् अत अवं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् । यमधीत्य विमुञ्चन्ति श्रुत्वा स्मृत्वा च वै द्विजाः ॥१॥ सदा त्रिषवणं स्नायात सकृत्स्नात्वा पयः पिबेत् । प्रातः स्नात्वा समारम्भं कुर्याज्जप्यं तु नित्यशः ॥२॥ सावित्री व्याहृतीं वापि जपेदष्टसहस्रकम् । ओंकारमादितः कृत्वा रूपे रूपे तथान्तरम् ॥३॥ स्थानं वीरासनं सक्तः कुर्यादासनमेव वा। आसनं शल्यविद्धं स्यादमधःशायी भवेत्सदा ॥४॥ गव्यस्य पयसोऽलाभे गव्यमेव भवेद्दधि । दध्यभावे भवेत्तक्र तक्राभावे तु यावकम् ॥५॥ एषामन्यतमं यच्चाप्युपपद्यत तत्पिबेत् । गोमूत्रेण तु संयुक्त यावकं तत्पिबेद्विजः ॥६॥ एतत्तु विहितं पुण्यं कृच्छ्रमङ्गिरसा स्वयम् । प्रणवात्तु समारम्भो नाम्ना वज्रमिति स्मृतम् ॥७॥ एतत्यातकयुक्तानां प्रायश्चित्तं विधीयते । महापातकसंयुक्ता वर्षेः शुध्यन्ति ते त्रिभिः ॥ ८॥ अथोपपातकाश्चिन्त्यास्तथा कालं समादिशेत् । कालस्य तु यथोक्तस्य ब्राह्मणस्तत्र कारणम् ॥६॥