________________
३०८२
आङ्गिरसस्मृतिः पादशौचक्रिया कार्या अद्भिः कुर्वीत केवलम् । व्रतिवद्धारयेद्दण्डं समन्त्रां मेखला तथा ॥३॥ गाश्चैवानुव्रजेन्नित्यं रजस्तासां सदा पिबेत् । तिष्ठन्तीष्वनुतिष्ठेच्च व्रजन्तीष्वप्यनुव्रजेत् ॥४॥ शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत् । गोमती च जपेद्विद्वानोंकारं वेदमेव च ॥५॥ आतुरामभिशस्ता वा चोरव्याघ्रादिभिर्भयैः। पतितां पङ्कलग्नां वा सर्वप्राणैर्विमोक्षयेत् ॥६॥ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा स्वशक्तितः ॥७॥ आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथवा खले। भक्षयन्ती न कथयेत् पिबन्तं चैव वत्सकम् ॥ ८॥ अनेन विधिना गोनो यस्तु गा अनुगच्छति । स गोहत्यात्मकात् पापान्मुच्यते नात्र संशयः ॥ ६ ॥ ऋषभैकादशा गाश्च दद्यात्सुचरितत्रतः। अविद्यमाने सर्वस्वं वेदविद्भयो निवेदयेत् ॥१०॥ एतेषां विहितं पुण्यं कृच्छ्रमङ्गिरसा स्वयम् । धर्मविद्भिरनूचानैरुपपातकनाशनम् ॥११॥ इत्याङ्गिरसधर्मशास्त्रे गोवधप्रायश्चित्तं
नामैकादशोऽध्यायः।