________________
दिगभेदज्ञानवर्णनम्
३०८७ पञ्चविंशति कर्माणि प्रोक्तान्यध्यायरूपतः । एकैकस्मिन्किस्क(?) माध्याये प्रोक्त का परिसंख्यया ॥१६॥ स पञ्चविंशत्यध्याये कर्मक्लप्तिर्यथाक्रमम् । धर्मशानं समाख्यातं भारद्वाजमहर्षिणा ॥२०॥ इति भारद्वाजस्मृतौ सन्ध्यादिप्रमुखकर्मविषयक प्रश्न
वर्णनंनाम प्रथमोऽध्यायः।
अथ द्वितीयोऽध्यायः
दिग्भेदज्ञानवर्णनम् अथ विजानीयात्पूर्वादि दिग्भेदज्ञानपद्धतिम् । कथयिष्याम्यहं सम्यक् सर्वकर्मफलाप्तये ॥१॥ पूर्वादि दक्षिणा वारुण्युदीची च यथाक्रमम् । दित(?श,श्चतस्रः परितः भवन्ति स्मृतिचोदिताः।२।। यत्रोदेति सहस्रांशुः स्यात् (सा) पूर्वादिगुदाहृता। यत्रास्तमेति सा प्रत्य गीतकि(?)दक्षिणोत्तरे ।।३।। दिक्संधयः स्युद्धिदशः चतस्रः परिकीर्तिताः । अभ्यन्तरं दिशोमन्तः तदूर्ध्वमुपरि स्मृतम् ॥ ४॥ तदधस्तादधोदिक्स्यात् एकादश दिशः स्मृताः(स्त्विमाः)। एवमेताः परिझेया दिशः सामान्यरूपतः ॥५॥ प्राङ्मध्यम विजानीयात् मेषस्थाऊदयम्बुधाः। तत्क्रमेणेतरदिशः मध्यदेशं यथाक्रमम् ॥ ६ ॥