________________
३०८०
आङ्गिरसस्मृतिः शकारीस्तु बनीयादूचं दक्षिणतोमुखम् । पाशलग्ने तथा दाहे प्रायश्चित्तं न विद्यते ॥६॥ यदि तत्र भवेच्छोकः प्रायश्चित्तं कथं भवेत् । जपित्वा पावमानीयं मुच्यते सर्वकिल्बिषात् ॥७॥ अस्लिमङ्गं गवां कृत्वा ललगूलच्छेदनं तथा। पातनं चैव शृङ्गस्य मासाधं यावकं पिबेत् ॥८॥ प्रणभङ्गे च कर्तव्यः स्नेहाभ्यङ्गश्च पाणिना। यवसश्चोपहर्तव्यो यावद्र ढव्रणो भवेत् ॥६॥ अस्थिभने तथा शृङ्गकटिभङ्गे तथैव च। यावजीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥१०॥ शृङ्गभङ्गेऽस्थिभङ्गे च चर्मनिर्मोचने तथा। दशरात्रं पिबेद्वनं यावत्स्वस्ति भवेत्तदा ॥१॥ अन्यत्राङ्कनलक्ष्मभ्यां वाहनिर्मोचने तथा। सायं संगोपनाथं तु न दुष्येद्रोधबन्धयोः ॥१२॥ यन्त्रण गोचिकित्साथ मूढगर्भविमोचने । यले कृते विपद्यत न दोषस्तत्र विद्यते ॥१॥ औषधं स्नेहमाहारं दद्याद्गोब्राह्मणे हितम्। प्राणिनां प्राणवृत्त्यर्थं प्रायश्चित्तं न विद्यते ॥१४॥ गजे वाजिनि वा व्याघ्र खड्गे श्याममृगे के। सिंहे शुनि वराहे च मयूरे पक्षिणामपि ॥१॥ काके हंसे च गृध्र च टिट्टिो खञ्जरीटके। यथा गवि तथा विन्द्याद्भगवान्मनुरखवीत् ॥१६॥