________________
३०७८
आङ्गिरसस्मृतिः ससत्रे दानधर्मे च पक्कमन्नं तु गर्हितम् ।। पञ्चरात्रं चरेज षडहं प्रध्यमाचरेत् ॥५॥ तथा चान्येष्वभोज्येषु ज्यहमेवे समाचरेत् । अनापत्सु चरेद्भक्ष्यं सिद्ध वस्तु गृहे वसन् ॥६॥ दशरात्रेचरेद्वनमापत्सु च व्यहं चरेत्।। पतितानां च सर्वेषां भुक्त्वा चान्द्रायणं चरेत् ॥७॥ प्रतिमासदिनं हृष्टमन्यथा पतितो भवेत् । प्रतिसंवत्सरं वापि श्रोत्रियस्य भवेदिदम् ॥८॥ ब्रह्मचारी यतिश्चापि विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः ॥६॥ व्याधितस्य दरिद्रस्य कुटम्बात्प्रच्युतस्य च । अध्वानां वा प्रयातस्य भैक्ष्यचर्या विधीयते ॥१॥ ब्रह्मचारी शुन्ना दष्टस्यहमेवं समाचरेत् । गृहस्थस्तु द्विरात्रं वाप्येकाहं वामिहोत्रवान् ॥११॥ नाभेरुध्वं तु दुष्टस्य तदेव द्विगुणं भवेत् । तदेव द्विगुणं वक्त्रे मूर्ध्नि चैव चतुर्गुणम् ॥१२॥ अत ऊवं तु यत्स्नातः स्नानेनैव विशुध्यति । सर्वेष्वेवावकाशेषु तदा प्रबजितः स्वयम् ॥१३॥ अती सव्रती वापि शुना दष्टस्तथा द्विजः । दृष्ट्वानि हूयमानं तु सद्य एव शुचिर्भवेत् ॥१४॥ ब्राह्मणी तु शुना दष्टा सोमे दृष्टिं निपातयेत् । सदा न दृश्यते सोमः प्रायश्चित्तं कथं भवेत् ॥१५॥