SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ अभक्ष्यभक्षणप्रायश्चित्तवर्णनम् ३०७ फलानि पिण्याकमथो ग्राह्यमौषधमेव च। अप्रणोद्यानि मेध्यानि प्रतिमाह्याणि नित्यशः ॥१८॥ सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः। पिवेत्सानीयमज्ञानाद्भुङ्क्त वा संस्पृशेत वा ॥१६॥ पानीयपाने कुर्वीत पञ्चगव्यस्य प्राशनम् । . त्रिरात्रोपोषणं भुक्त स्पर्शे स्नानं विधीयते ॥२०॥ इत्याङ्गिरसधर्मशास्त्रे शूद्रान्नादिनिषेधकथनं नामाष्टमोऽध्यायः। नवमोऽध्यायः अभक्ष्याभक्षणप्रायश्चित्तम् . अन्तर्दशाहे भुक्त्वान्नं सुतके मृतकेऽपि वा। दशरात्रं पिबेद्वज़ ब्राह्मणो ब्राह्मणस्य तु ॥१॥ क्षत्रियस्यार्धमासं तु विशः पञ्चाधिकं तथा । शूद्रस्यैव तु भुक्त्वान्नं त्रिभिर्मासैर्व्यपोहति ॥२॥ आहिताग्निस्त्रिरात्रेण ब्रह्मक्षत्रविशामपि। पञ्चरात्रं चरेद्भुक्त्वा श्रोत्रियस्याग्निहोत्रिणः ॥३॥ अत ऊध्वं तु स्नाताना मासाशौचं न विद्यते । दीक्षितानां च सर्वेषां राज्ञां सर्वनिधेस्तथा ॥४॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy