________________
३०७६
आङ्गिरसस्मृतिः
__षण्मासं भुक्तो षण्मासानथ यो भुत शूद्रस्यान्नं निरन्तरम् । जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥८॥ अकृत्वैव निवृत्तिं यः शूद्रान्नान्प्रियते द्विजः । आहिताग्निविशेषेण स शूद्रगतिभाग्भवेत् ॥६॥ पकान्नवज विप्रेभ्यो गोधान्यं क्षत्रियादपि । वैश्यात्तु सर्वधान्यानि शूद्राद्धान्यं न किंचन ॥१०॥ अनूदकं तु तत्सर्व गन्धमाल्यविवर्जितम् । यथा वर्णेषु यहत्तं प्रतिगृह्णीत वै द्विजः ॥१२॥ यत्तु क्षेत्रगतं धान्यं खले वा कण एव वा। सार्वकालं ग्रहीतव्यं शूद्रादप्यगिरोऽब्रवीत् ॥१२॥ सत्पात्रे समनुज्ञातं दुग्धं यच्छुचिना भवेत् । चथा चौषधिकृत्यं स्याहन्ना वा पयसापि वा ॥१३॥ पात्रेभ्योऽपि तथा ग्राह्य शूद्रभ्यः प्राकृतादपि । शूद्रवेश्मनि विप्राणां श्रीरं वा यदि वा दधि ॥१४॥ निवृत्तेन न पातव्यं शूद्रान्नसदृशं हि तत् । अग्न्यगारे गवां गोष्ठे नदीविप्रगृहेषु च ॥१५॥ कूपस्थाने तथारण्ये पेयं चैव पयो दधि । आमं मांसं दधि घृतं धान्यं क्षीरमौषधम् ॥१६॥ गुडो रसस्तधोदश्विद्भोज्यान्येतानि नित्यशः । अभृतं चारनालं च ताम्बूलं सक्तवस्तिलाः ॥१७॥