________________
द
अष्टमोऽध्यायः शूद्रान्नस्यगर्हितत्ववर्णनम्
प्रतिग्रहे आहिताग्निस्तु यो विप्रः प्रतिगृह्णाति शूद्रतः । भोक्तृणां समतां याति तिर्यग्योनि च गच्छति ॥१॥
शूद्रानभोजने यस्तु वेदमधीयानो भुङ्क्त शूद्रान्नमेव च । शूद्र वेदफलं याति शूद्रत्वं च स गच्छति ॥२॥
शूद्रप्रशस्य स्वस्तिवचने घात्वा पीत्वा निरीक्ष्याथ स्पृष्ट्वा च प्रतिगृह्य च । प्रशस्य स्वस्ति चेत्युक्त्वा भोक्ता एव न संशयः ॥ ३ ॥ एते दोषा भवन्तीह शूद्रान्नस्य परिग्रहे। अनुग्रहं तु वक्ष्यामि मनुना चोदितं पुरा ॥४॥ आमं वा यदि वा पकं शूद्रान्नमुपसेवते । किल्विषं भुञ्जते भोक्ता यश्च विप्रः पुरोहितः ॥५॥
__ प्रतिगृह्यान्येभ्यो दातव्यम् गुरुवह यतिथीनां तु भृत्यानां तु विशेषतः । प्रतिगृह्य प्रदातव्यं न भुञ्जीत स्वयं ततः ॥६॥
शूद्रान्नरसपुष्टाधीयानस्य शूद्रान्नरसपुष्टस्य चाधीयानस्य नित्यशः । .. जपतो जुह्वतो वापि गतिरूवं न विद्यते ॥७॥