________________
प्रायश्चित्तवर्णनम्
३०७३ तेषां त्रेतामिना दग्धं पावकस्य तु धीमतः । नश्यते नात्र संदेहः सूर्यदृष्टिहिमं यथा ॥११॥ प्रब यात्पक्षतो यच्च बाह्यं यचापि पर्षदः।। गच्छतस्तावुभौ मूढौ नरकं तेन कर्मणा ॥१२॥ 'अजानन् यस्तु विब याजानन्वाप्यन्यथा वदेत् । उभयोहि तयोर्दोषः पक्षयोरुभयोरपि ।१३।। अजानानां च दातृणामदातृणां च जानताम् । एवं भवेन्महादोषस्तस्माज्ज्ञात्वा वदेत्सदा ॥१४॥ यत्तु दत्तमजानद्भिः प्रायश्चित्तं समागतः। . तत्पापं शतधा भूत्वा दातृनेवोपतिष्ठति ॥१२॥ ये तु सम्यस्थिता विप्रा धर्मवेदाङ्गपारगाः। शक्तास्ते तारणे तेषामात्मनोऽनुग्रहस्य च ॥१६॥ इत्याङ्गिरसधर्मशास्त्रे प्रायश्चित्ताचारकथनं नाम
षष्ठोऽध्यायः।
सप्तमोऽध्यायः
पापपरिगणनम् आर्तानां मार्गमाणानां प्रायश्चितानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते च यान्ति समं तु तैः॥१॥ तस्मादातं समासाद्य ब्राह्मणं तु विशेषतः । जानद्भिः पर्षदः पन्था न हातव्यः पराङ्मुखैः ॥२॥ १६३