SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ ३०७२ आङ्गिरसस्मृतिः षष्ठोऽध्यायः प्रायश्चित्ताचारकथनम् पणे तु पर्षत्कल्पस्य कल्पस्य परिषद्बलम् । कारिणश्चाप्युपस्थानं बलं सम्यनिवेदितम् ॥१॥ अकल्पा परिषद्यत्र कल्पो वा परिषद्विना । कार्य वाप्यन्यथोक्त वा शुद्धिस्तत्रास्य दुर्लभा ॥२॥ परिषत्कल्पतो कार्य यथा सर्वे बलीयसः । भवन्ति न तथा पापं तस्मिन् योगेऽवतीर्यते ॥३॥ एवमेतत्समासाद्य तद्योगं च प्रणश्यति । महत्यां चाम्भसि क्षिप्तं यथाल्पलवणं तथा ॥४॥ एतद्योगप्रधानाय कार्याणि परिशोधने । तद्रव्यं कर्मसंयोगाद्वक्त्राणामिव शोधने ॥१॥ यत्पापं शाम्यमानस्य कर्तुर्धर्मेण शास्त्रतः । तद्वद्गच्छति कार्येन भागशः प्रब्रवीमि ते ॥६॥ गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्। अन्तःप्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥७॥ गुरु राजा यमो वाऽपि शास्ता धर्मण युज्यते । शास्ता संमुच्यते पापाहाहतो भयतः शुभम् ॥८॥ प्रायश्चित्ते यदा चीर्ण ब्राह्मणे दग्धकिल्बिषे । धर्म पृच्छामि तत्त्वेन तत्पापं कनु तिष्ठति ॥६॥ नैव गच्छति कर्तारं नैष गच्छति पार्षदम् । मारुतार्कीशुसंयोगाजलवत्संप्रशीर्यते ॥१०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy