________________
प्रायश्चित्तनियन्तृकथनम्
३०७१ ब्राह्मणो ब्राह्मणानां तु क्षत्रियाणां तु पाठकः। वैश्यानां चैव यो प्रष्टा त एव व्रतदाः स्मृताः ॥ ८॥ अगुरुः क्षत्रियाणां तु वैश्यानां चाप्ययाजकः। प्रायश्चित्तं समादिश्य तप्तकृच्छ समाचरेत् ॥६॥ एवमुद्दिश्य वर्णेषु क्षत्रियादिपु दर्शनम् । प्रवृत्तानां तु वक्ष्यामि प्रायश्चित्तमनुत्तमम् ॥१०॥ शूद्रः कालेन शुध्येत गोब्राह्मणहिते रतः। दानैर्वाप्युपवासैर्वा द्विजशुश्रूषणे रतः ॥११॥ अपि वा मार्गमालम्ब्य क्षत्रधर्मेषु तिष्ठतः। अन्तरा ब्राह्मणं कृत्वा ततोऽस्य व्रतमादिशेत् ॥१२॥ तस्माच्छूद्र समासाद्य तथा धर्मपथे स्थितः । प्रायश्चित्तं प्रदातव्यं धर्मवेदविवर्जितम् ॥१३॥ आपन्नो येन वा धर्मो व्रतं वा येन तुष्यति । ब्राह्मणानां प्रसादेन संतार्यः सर्व एवं हि ॥१४॥ इत्याङ्गिरसधर्मशास्त्रे प्रायश्चित्तनियन्तृकथनं नाम
पञ्चमोऽध्यायः।