SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ ३०७० आङ्गिरसस्मृतिः चित्रकर्म यथानेकरङ्गरुन्मील्यते शनैः। ब्राह्मण्यमपि तद्वत्स्यात्संस्कारैर्मन्त्रपूर्वकैः ॥१०॥ इत्याङ्गिरसधर्मशास्त्रे परिपल्लक्षणं नाम चतुर्थोऽध्यायः पञ्चमोऽध्यायः प्रायश्चित्तनियन्तृकथनम् चातुर्वेद्यो विकल्पी च अङ्गविद्धर्मपाठकः । त्रयश्चाश्रमिणो मुख्या पर्पदेपा दशावरा ॥१॥ चतुर्णामपि वेदानां पारगा ये द्विजोत्तमाः। स्वैः स्वैरङ्गैविनाप्येते चातुर्वेद्या इति स्मृताः ॥ २॥ धर्मस्य पर्पदश्चैव प्रायश्चित्तक्रमस्य च। . त्रयाणां यः प्रमाणज्ञः स विकल्पी भवेद्विजः ॥३॥ शब्दे छन्दसि कल्पे च शिक्षायां चैव निश्चयः । ज्योतिपामयने चैव सनिरुक्त ऽङ्गविद्भवेत् ॥४॥ वेदविद्यावतस्नातः कुलशीलसमन्वितः । अनेकधर्मशास्त्रज्ञः पठ्यते धर्मपाठकः ॥५॥ ब्रह्मचर्याश्रमादूर्ध्वमाश्रमाद्वृद्ध उच्यते । एषामेव तु वृद्धानां य एते संप्रकीर्तिताः ॥६॥ परिषद्राह्मणानां च राज्ञां सा द्विगुणा स्मृता । वैश्यानां त्रिगुणा चैव पर्षद्वच्च व्रतं स्मृतम् ॥७॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy