________________
परिषल्लक्षणवर्णनम्
३०६६ चतुर्थोऽध्यायः
परिषल्लक्षणवर्णनम् प्रायो नाम तपः प्रोक्त चित्तं निश्चय उच्यते।। तपोनिश्चयसंयोगात्प्रायश्चित्तमिति स्मृतम् ॥१॥ प्रायश्चित्तसमं चित्तं चारयित्वा प्रदीयते । पर्षदा क्रियते यत्तत्प्रायश्चित्तमिति स्मृतम् ॥२॥ चत्वारो वा त्रयो वापि वेदवेदाग्निहोत्रिणः । ये तु सम्यस्थिता विप्राः कार्याकार्यविनिश्चिताः ॥३॥ प्रायश्चित्तप्रणेतारः सप्तैते परिकीर्तिताः। एकविंशतिभिश्चान्यैः पार्षदत्वं समागतैः ॥४॥ सावित्रीमात्रसारैस्तु चीर्णवेदव्रतैर्द्विजैः । यतीनामात्मविद्यानां ध्यायिनामात्मवेदिनाम् । शिरोवतैश्च स्नातानामेकोऽपि परिषद्भवेत् ॥५॥ एवं पूर्व मयाप्युक्त तेषां ये ये परे परे। स्ववृत्या परितुष्टानां परिषत्त्वमुदाहृतम् ॥६॥ एषां लघुषु कार्येषु मध्यमेषु च मध्यमा। महापातकचिन्तासु शतशो भूय एव वा ॥७॥ अत ऊवं तु ये विप्राः केवलं नामधारकाः । परिषत्त्वं न तेष्वस्ति सहस्रगुणितेष्वपि ॥८॥ जन्मशारीरविद्याभिराचारेण श्रुतेन च। धर्मेण च यथोक्तन ब्राह्मणत्वं विधीयते ॥६॥