SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तविधानवर्णनम् ३०६७ ते हि पापकृतां वैद्या बोद्धारश्चैव पाप्मनाम् । दुःखस्यैव यथा वैद्या सिद्धिमन्तो रुजायताम् ॥५॥ प्रायश्चित्ते समुत्पन्ने श्रीमान् सत्यपरायणः । मृदुरार्जवसंपन्नः शुद्धिं यायाद्विजः सदा ॥६॥ सचेलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः । क्षत्रियो वाथ वैश्यो वा ततः परिषदं व्रजेत् ॥७॥ उपस्थानं ततः शीघ्रमर्तिमान् धरणी व्रजन् । गात्रैश्च शिरसा चैव न च किंचिदुदाहरेत् ॥८॥ ततस्ते प्रणिपातेन दृष्ट्वा तं समुपस्थितम् । विप्राः पृच्छन्ति यत्कार्यमुपवेश्यासने शुभे ॥६॥ किं ते कार्य किमर्थं वा किं वा मृगयसे द्विज । पर्षदि ब्र हि तत्सर्वं यत्कार्य हितमात्मनः ॥१०॥ इत्याङ्गिरसधर्मशास्त्रे परिषदुपस्थानं नाम द्वितीयोऽध्यायः । . तृतीयोऽध्यायः प्रायश्चित्तविधानवर्णनम् सत्येन द्योतते राजा सत्येन द्योतते रविः। सत्येन द्योतते वह्निः सत्ये सर्व प्रतिष्ठितम् ॥१॥ भूर्भुवःस्वस्त्रयोलोकास्तेऽपि सत्ये प्रतिष्ठिताः । अस्माकं चैव सर्वेषां सत्यमेव परा गतिः ॥२॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy