________________
आङ्गिरसस्मृतिः कृत्वा पूर्वमुदाहार्य यथोक्त धर्मकर्तृभिः । पश्चात्कार्यानुसारेण शक्त्या कुर्युरनुग्रहम् ॥७॥ यत्पूर्वमृषिभिः प्रोक्त धर्मशास्त्रमनुत्तमम् । तत्प्रमाणं तु सर्वेषां लोकधर्मानुवर्णनम् ॥८॥ न हि तेषामतिक्रम्य वचनानि महात्मनाम् । प्रज्ञानैरपि विद्वद्भिः शक्यमन्यत्प्रभाषितुम् ॥६॥ स्वाभिप्रायकृतं कर्म विधिविज्ञानवर्जितम् । क्रीड़ाकर्मेव बालानां तत्सर्वं स्यानिरर्थकम् ॥१०॥ इत्याङ्गिरसधर्मशास्त्रे उपोद्धातो नाम प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः
परिषद उपस्थानलक्षणम् अत ऊवं प्रवक्ष्यामि चोपस्थानस्य लक्षणम् । उपस्थितो हि न्यायेन व्रतादेशनमर्हति ॥१॥ सद्यो निःसंशयः पापो न भुञ्जीतानुपस्थितः। भुञ्जानो वर्धयेत् पापं परिषद्यत्र वर्तते ॥२॥ संशये न तु भोक्तव्यं यावत्कार्यविनिश्चयः । प्रमाणेनैव कर्तव्यं यावदाशासनं तथा ॥३॥ कृत्वा पापं न गृहेत गृह्यमानं तु वर्धते । स्वल्पं वाऽथ प्रभूतं वा धर्मविद्भयो निवेदयेत् ॥४॥