________________
दर्शश्राद्धतर्पणस्वरूपवर्णनम् ३०६३ तिलार्चनं तिलमुखं रक्षोहननमाचरेत् । तिलैर्विकिरणं कुर्याद्रव्यलोपेषु कृत्स्नशः ॥१०६६॥ समीचीनं तिलैः कुर्यात्तिलाः स्युः सोमदेवताः। सोमः पितृणामाधारः सोमायैव तु हूयते ॥११००। सोऽयं हि पितृभिः प्रीतस्तहत्तं कव्यमुत्तमम् । सोमतृप्त्यैकजनकं तस्मात्सोमहुतं हविः ॥११०१॥ तत्कलावृद्धिजनकं सा कला पीयते हि तैः। वस्वादिभिः पितृभिस्तु तदेवं तत्तिलैः सदा ॥११०२।। सर्वश्राद्धषु पितरः पूजनीया विशेषतः ।
. दर्शश्राद्ध तर्पणस्वरूपेण सर्वाभावे विशेषेण तिलैर्जलविमिश्रितैः ॥११०३।। दर्शादिकानि श्राद्धानि कार्याण्येव समन्त्रतः । स्वधा नमस्तर्पयामि पितरं च पितामहम् ॥११०४।। प्रपितामहमेवं च वस्वादिकमयांस्तथा। नामगोत्रैकसंयुक्तान् श्राद्धं कृत्वाऽपि तत्परम् ॥११०।। तदङ्गतर्पणं कार्य मृतस्यादौ तिलोदकम् । समारभ्य क्रियाः कार्यास्तस्मात्सन्तस्तिलोदकम् ॥११०६।। प्रथमश्राद्धमेवोचुः श्राद्धप्रतिनिधित्वतः। तदेवोचुश्च निखिला दुर्बलानां हितेच्छवः ॥११०७॥ समालोक्यैव शास्त्राणि श्रुतिमूलानि ते पुरा । मन्वादयो महात्मानस्तिला स्युम्तादृशाः किल ॥११०८॥