________________
३०६०
आङ्गिरसस्मृतिः तेषां श्राद्ध ककरणमेतेषां स्वस्य केवलम् । प्रत्यवायैकशून्याय न चेदोषो महान् भवेत् ॥१०६६॥ तत्संभूतमहादोषपरिहाराय वा न चेत् । प्राप्तये कर्मठत्वस्य न चेदस्य तु केवलम् ॥१०७०।। श्राद्धत्यागात् प्रत्यवायो भवेत्तस्मात्तथाऽऽचरेत् । नित्यं तेषां मृताहेषु दानधर्मादिकं चरेत् ॥१०७१।। विप्राणां भोजनात्पूर्व नियमोऽयमुदाहृतः । दुरात्मनां विशेषेण पूर्ववद्दोषशान्तये ॥१०७२।। श्राद्धभुक्तः परं तेषां न कुर्याद्भरिभोजनम् ।
श्राद्धाङ्गतर्पणं परेऽहनि परेद्य र्वा प्रयत्नेन श्राद्धाङ्गतिलतर्पणम् ॥१०७३।। सद्य एव प्रकर्तव्यं पूर्व पश्चात्तु वा तथा । अभिश्रवणमेवं स्यादेकेनैव हि कारितम् ॥१०७४।। नान्नसूक्तं त्यागकाले प्राचीनावीतिकं न तु । अनौकरणहोमेऽपि तञ्चावश्यकमुच्यते ॥१०७॥
उद्देशत्यागकाले सव्यम् उद्देशत्यागकाले च सव्यमेव भवेद्धि वै।
- मधुवावाद्यन्ते न मधुवातादिकं भुक्तरन्ते नैव वदेदपि ॥१०७६।।
विकिरं न कुर्यात् विकिरं नैव कुर्वीत नित्यकर्माणि यानि वा । तानि सर्वाणि सर्वत्र धृत्वा पुण्डू विधानतः ॥१०७७॥