________________
३०५६
आङ्गिरसस्मृतिः पश्चाद्दर्श प्रकुर्वीत पित्रोरेवायमुच्यते ।
मृताहे मातामहादिश्राद्धसंभवे मातामहस्य तत्पत्न्याः सापत्नीमातुरेव च ॥१०२६।। पितुः श्राद्धसमत्वेन प्रोचुः किल महर्पयः । दर्श समागतं मन्वादिकं लाद्धं समाचरेत् ॥१०३०।। दर्शसिद्धिस्तावता स्यादैवतैक्येन केवलम् । सपिण्डकमपिण्डं वा दैवतैक्ये पृथङ् न तु ॥१०३१।। कायं भवति तच्छ्राद्धं भिन्नदैवतके पुनः ।
नित्यनैमित्तिके प्राप्ते पूर्व नैमित्तिकं काय प्रत्यब्दे यदि तत्तदा ॥१०३२।। प्रत्यब्दमागतं प्रत्यासत्तियोगवशाचरेत् । पितुः श्राद्धं प्रथमतो मातुः श्राद्धं ततः परम् ॥१०३३।। पश्चान्मातामहस्यापि तत्पत्न्याश्च ततः परम् । पश्चात्सपत्नीमातुः स्यात्पश्चात्पन्या प्रकीर्तितम् ।।१०३४।। सुतभ्रातृपितृव्याणां मातुलादिक्रमात्स्मृतम् ।
दर्श बहुश्राद्धसंभवे पित्रादिभिन्नश्राद्धानां कारुण्यानां यदा पुनः ॥१०३५।। दर्शादिष्वागतानां चेन्मृताहानां तदा परम् । दर्शादिकं समाप्यैव कारुण्यश्राद्धमाचरेत् ॥१०३६।। केचित्पत्न्याः पितृव्यस्य तत्पत्न्याश्च समागमम् । दर्शादिषु मृताहं वै पूर्व कृत्वा ततः परम् ॥१०३७।।