________________
विप्रविसर्जनानन्तरमेव दानजपादिकरणविधानवर्णनम् ३०५५
विद्यमानाग्निरपि त्रिदिनात्पूर्व पुनः यत्नादिनत्रयात्पूर्व विद्यमानाग्निरप्यलम् । पुनःसंधानविधिना श्राद्धायामि सुसंस्क्रियात् ।।१०२१॥
__ श्राद्धदिने वय॑म् औपासनं विना होममन्यं होमं तु तदिने । न कुर्यादेव विधिना यदि कुर्यात्तु तत्पतेत् ॥१०२२।।
श्राद्धदिने दानजपादि न कर्तव्यम् दानाध्ययनदेवार्चाजपहोमव्रतादिकान् । न कुर्याच्छाद्धदिवसे प्राग्विप्राणां विसर्जनात् ।।१०२३।। न दद्याद्याचमानेभ्यः फलपुष्पजलाक्षतान् । तण्डुलान् दधितक्राज्यशाकपात्रतॄणस्थलम् ॥१०२४॥ काष्ठमूलकन्दभाण्डविद्यापुस्तकभूषणम् । अणमेवं धनं धान्यं चेलं वाऽनुग्रहादिकम् ॥१०२५।। कल्याणवार्ताकोपादिचाटुपारुष्यभाषणम । बालनिग्रहतग्राहतत्संल्लापादि वर्जयेत् ॥१०२६।। उच्च संभाषणं हस्तताडनं हसनं वृथा । दुरालापं दुष्टलोकभाषणं दुष्टशिक्षणम् ॥१०२७।। नैतानि कुर्याद्यत्नेन प्रत्यब्दे तु विशेषतः ।
मृताहे दर्श दर्शादिषु मृताहश्चेन्मृताहं पूर्वमाचरेत् ॥१०२८।।