________________
आङ्गिरसस्मृतिः जातोऽधिकः प्रदत्तात्तु धर्मतः सर्वकर्मसु ।
पितुः श्राद्धस्य षण्मासात्पूर्व प्रभृति कृत्यम् पित्रोः श्राद्धस्य षण्मासात्पूर्वमेव तदा तदा ॥१०११।। श्राद्धस्मृति प्रकुर्वन्वै कथाः काश्चन सन्ततम् । प्रकुर्वन् स्वजनैस्तिष्ठदिष्टान् कांश्चिद्विशेषकान् ।।१०१२।। तिलमाषव्रीहियवान् गुडमुद्गादिकान् मधु । कन्दमूलादिकान् कांश्चिद्वस्वकार्पासकादिकान् ।।१०१३।। संगृह्य स्थापयेद्यत्नादिव्यचन्दनखण्डकम् । दिव्योशीरं गुग्गुलुं च निक्षिपेच्चावनीतले ॥१०१४।। शुष्कान् शलाटुकान् कांश्चिद्गोपयेच्छ्राद्धहेतवे । वृक्षेषु कांश्चिद्यलेन भूम्यन्तर्भूतले तथा ॥१०१।। कुसूलेषु दुकूलेषु पुनः कुम्भघटेषु च । स्थापयेन्निक्षिपेदेवं निखनेकांश्चिदप्युत ॥१०१६॥ समीचीनानि वस्तूनि दृष्टमात्राणि चेत्तदा। श्राद्धार्थमिति निश्चित्य प्रोक्त्वा स्वीयैश्च केवलम् ॥१०१७।। गोपयित्वैव यत्नेन स्थापयेत्पालयेदपि । तदुक्तितत्कथातृप्ताः पितरो नित्यमेव वै ॥१०१८।। आशीभिरेनं सततं वर्धयन्त्यपि तारिताः ।
कथातृप्तिः भवन्ति कथया स्वर्गे पितृलोके च तेऽनिशम् ।।१०१६।। कथया तृप्तिरेतेषां स्मृत्योक्त्या वचनादपि । तदीयकृत्यसंभाषाप्रियवस्तुप्रचारणैः ॥१०२०॥