SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ अन्यगोत्रदत्तकपुत्रकृत्यवर्णनम् ३०५३ पितामहादिभिः सम्यक् यत्प्राचीनकगोत्रकैः । दत्तपौत्रस्य पितरं प्रपितामहमुख्यकैः ॥१००१।। त्यक्त्वा पितामहं त्वन्यगोत्रं सम्यक् ततः परम् । योजयेन्नात्र सन्देहस्तज्जं तत्प्रपितामहम् ॥१००२।। त्यक्त्वा सम्यग्विचार्यैव स्वगोत्रैरेव योजनम् । कुर्यात्तद्विधिना नो चेत् पितृणां संकरो भवेत् ॥१००३।। तेन दोषश्च सुमहान् प्रभवेदेव दुर्घटः। दत्तपुत्रोद्भवो यत्नात्सपिण्डीकरणे पितुः ॥१००४॥ त्यजेत्पितामहं यत्नात्तत्पुत्रः प्रपितामहम् । तत्पुत्रश्चेत्ततो वृद्धप्रपितामहमेव वै ॥१००५।। एवं मातुः सपिण्डे तु दत्तपुत्रोद्भवश्चरेत् । _ अन्यगोत्रदत्तः यद्यन्यगोत्रजो दत्तः सन्ततौ तत्परंपराम् ॥१००६।। चतुष्कुलैकपर्यन्तं जातानां सङ्कटं महत् । तस्मिन् सपिण्डीकरणे तदानीं समुपस्थिते ॥१००७।। भवत्येव हि तत्पश्चात् पञ्चमादि यथाक्रमम् । स्वयमेव भवेत्तावत्तद्वर्गे जन्मिनां महत् ॥१००८।। अवेक्षणं जागरूकता च नित्ये स्मृते तराम् । तस्मात्सगोत्रे तनयं संगृह्णीयादपुत्रकः ॥१००६॥ शिष्टं सर्वं पूर्वमेव मया सम्यङ् निरूपितम् । पुत्रे जाते ततो भूयः पुत्रस्वीकरणादथ ॥१०१०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy