SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ३०५२ आङ्गिरसस्मृतिः दह्यमानं तु भर्तारं दृष्ट्वा नारी पतिव्रता । अनुगच्छेत्तयोः श्राद्धं पृथगेकादशेऽहनि ॥६६३|| शिलाप्रतिष्ठापनादिकृत्यं सर्व पृथक् पृथक् । एकत्रैव प्रकुर्वीत पितुर्मातुः समन्त्रकम् ॥६६४॥ षोडशान्तं पृथक्कृत्वा सापिण्ड्य द्वादशेऽहनि । प्रेतत्वात्तु विमुक्त न सह मातुः सपिण्डकम् ॥६६शा तत्पिण्डसंयोजनम् स्त्रीपिण्डं भर्तृ पिण्डेन संयुज्य विधिवत्पुनः । त्रेधा विभज्य तं पिण्डं क्षिपेन्मात्रादिषु त्रिषु ॥ ६६॥ ___ मातुः सापिण्ड्याभावस्थलम् अत्र विष्णुर्मतं स्वस्य सुलभायावदत्किल । कृते पितुः सपिण्डत्वे मातुस्तु न सपिण्डनम् ॥६६७|| पितुरेव सपिण्डत्वे तस्या अपि कृतं भवेत् । स्त्रीणां पृथङ् न कर्तव्या सपिण्डीकरणक्रिया ॥६६८|| दत्तेन पालकपितुः सापिण्ड्यम् अन्यगोत्रप्रदत्तश्चेत्तनयः स्वपितुस्ततः । पालकस्य प्रकुर्वीत तत्पित्रादिसपिण्डनम् ॥8 दत्तपुत्रकृत्यम् विवादो नात्र कोऽप्यस्ति तादृग्दत्तसुतः पितुः । स्वयं तद्भिन्नगोत्रोऽपि तद्गोत्रे योजयेच्च तम् ॥१०००।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy