SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ३०५० आङ्गिरसस्मृतिः उपवासार्थः उपावृत्तिस्तु पाकेभ्यो यस्तु वासो गुणैः सह ॥६७४|| उपवासः स विज्ञेयः सर्वभोगविवर्जितः । अपुत्रासापिण्ड्यम् पन्याः कुर्यादपुत्रायाः पत्युर्मात्रादिभिः सह ॥१७॥ सापिण्ड्यमनुयाने तु जनकेन सहात्मजः । अनुगमने मृतं यानुगता नाथं सा तेन सह पिण्डनम् ॥६७६।। अर्हति स्वर्गवासेऽपि यावदाभूतसंप्लवम् । स्त्रीपिण्डं भर्तृ पिण्डेन संयुज्य विधिवत्पुनः ॥६७७। त्रेधा विभज्य तत्पिण्डं क्षिपेन्मात्रादिषु त्रिषु । भर्तुः पित्रादिभिः कुर्याद्भा पन्यास्तथैव च ॥६७८! सपत्न्या वाऽसपत्न्या वा न भेद इति गोभिलः । एकादशेऽहनि षोडशम् केचिदत्र पृथक्प्रोचस्तं पक्षं प्रवदाम्यहम् ॥६७६।। एकचिया समारूढौ दम्पती निधनं गतौ । एकोद्दिष्टं षोडशं च पृथगेकादशेऽहनि ॥६८०।। द्वादशेऽहनि संप्राप्ते पिण्डमेकं द्वयोः क्षिपेत् । पितामहादिपिण्डेषु तं पितुर्विनियोजयेत् ॥६८।। केचित्तमेव पिण्डं तु द्वधा कृत्वा ततः परम् । उदग्भागगतं पिण्डं पितृवर्ग नियोजयेत् ॥६८२।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy