SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ ३०४८ आङ्गिरसस्मृतिः उच्छियोच्छिष्टसंस्पर्श उच्छिष्टन तु संस्पृष्टो भुञ्जानः श्राद्धकर्मणि । शेषमन्नं तु नाश्नीयात्कर्तुः श्राद्धस्य का गतिः ॥६५४|| तत्स्थाननामगोत्रेण ह्यासनादि तथार्चयेत् । अन्नत्यागं ततः कृत्वा पावके जुहुयाञ्चरुम् ॥१५॥ पुरुषसूक्त न जुहुयाद्यावद्द्वात्रिंशदाहुतिः । होमशेपं समाप्याथ श्राद्धशेष समापयेत् ॥६५६।। अकृत्वा तु समीपे तु ब्राह्मणे वमनं यदि । पुनः पाकं प्रकुर्वीत पिण्डदानं यथाविधि ॥६५७|| उच्छिष्टस्पर्शनं ज्ञात्वा तत्पात्रं च विहाय च । तत्पात्रं परिहृत्याथ भूमि समनुलिप्य च ॥६५८|| तस्य शीघ्र विधायैव सर्वमन्नं प्रवेष्टयेत् । परिषिच्य ततः पश्चाद्भोजयेच्च न दोषकृत् ॥६५६।। अन्योन्यस्पर्श श्राद्धपङ्क्तौ तु भुञ्जानावन्योन्यं स्पृशतो यदि । द्वौ विप्रो विसृजेदन्नं भुक्त्वा चान्द्रायणं चरेत् ।।६६०।। उच्छिष्टोच्छिष्टसंस्पर्श शुना शूद्रण वा तथा । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥६६॥ इन्द्राय सोमसूक्त ने श्राद्धविघ्नो यदा भवेत्। अग्न्यादिभिर्भोजनेन श्राद्ध संपूर्णमेव हि ॥६६२॥ इन्द्राय सोमसूक्तन भोजनेनेति च त्रयम् । विधानं कथितं सम्यग्व्यवस्था ह्यत्र चोच्यते ॥६६३।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy