________________
३०४६
आङ्गिरसस्मृतिः अष्टाविंशत्प्रभृति वै याः काश्चन जनैः किल । नदीति नित्यं कथ्यन्ते खन्यन्ते च तदा तदा ॥६३४।। नदीगा: सिन्धुगा वापि पर्वतादिसमुद्भवाः । यत्र कुत्रापि वा जाताः क्षुद्रा दीर्घा जलैर्यताः ।।१३।। वर्षाजलाश्च खननजला लवणशम्बराः । सर्वास्ताः कथिताः सद्भिर्मासान्ते स्यू रजस्वलाः ।।६३६।। विशेषेणाधुना प्रोक्ताः सर्वासां सरितामपि । प्रसंगात्तत्स्वरूपस्य माहात्म्यं च तथाविधम् ॥१३७।। उक्तप्रायं विजानीयाद्या वा नित्यजलाः पुनः । उत्तमा इति ताः प्रोक्ता नदीनां सिन्धुसंगतः ॥६३८॥ आधिक्यं तत्प्रकथितं पुण्यक्षेत्रादिना तथा । क्षेत्रं चापि तथा ज्ञेयं नदीयुग्मैकमेलनात् ॥६३।। खननोत्पन्नसलिला तन्न्यूना कथिता तथा । खननाच्चाधिकजला तच्छष्ठा वै स्मृताखिलैः ॥६४०॥ पञ्चयोजनपर्यन्तप्रवहत्सलिलोत्तमा। उत्पत्तिप्रभृतिस्थैर्यवहत्सलिलसंयुता ॥६४१॥ परमा चोत्तमा चेति सा गङ्गेति च फण्यते । नदीनां प्रवरा गङ्गा तज्जलं श्राद्धकर्मणि ॥६४२।। पावनं परमं प्रोक्त वमनं मधु चोच्यते । तत्प्रेतपर्पटं साक्षात्पितणां दुःखवारकम् ॥६४३।। खड्गपात्रं हि कुतपो दौहित्रो वा पुनः स्मृतः । शिवनिर्माल्यतः श्राद्धवैगुण्यं तत्प्रशाम्यति ॥६४४||