________________
दिनसङ्खथया नदीनां रजस्वलात्ववर्णनम् ३०४५ दिवसात् प्रभृति प्रोक्तास्तिस्रो रात्री रजस्वलाः । सप्तमीप्रभृति ह्यवं सरितः काश्चनापराः ॥६२३।। नलिनी निर्मला नारा गुर्वी गर्भा गरा धरा । क्षरिका काशिका श्यामा दश प्रोक्ता रजस्वलाः ॥६२४॥ दारिद्रयनाशिनी देया बाहुदा बहुला बला। शर्मिष्ठा शयना स्वापा नव नद्यो रजस्वलाः ॥१२॥ दशमीप्रभृति प्रोक्तास्तिस्रो रात्रीर्मनीषिभिः। तप्ता तापा तापसा च विश्वामित्रा बृहद्वरा ॥२६॥ धेना सेना सना सोमा नव नद्यो रजस्वलाः । त्रयोदशीप्रभृत्येता कथितास्ता रजस्वलाः ॥२७॥ कलिका वरुणा वामा सोमदा महिला कला। त्वरिता लुलिता तारा षोडशप्रभृति स्मृताः ॥६२८॥ तिस्रो रात्रीरापगास्ता महाशुद्धा रजस्वलाः । गारुत्मता गतिमती गतिदा गणवारिता ॥२६।। गुणाढ्या गुणदा शेषा सप्त नद्यः प्रकीर्तिताः । एकोनविंशतिदिनप्रभृत्येता रजस्वलाः ॥६३०॥ शातद्रुश्च शतद्रुश्च वरणी वारुणी रसा। हिरण्यदा हैमवती गजवासी मनस्विनी ॥३१॥ रजस्वला नवैताः स्युभविंशतिदिनादितः । करतोया कालतोया वर्षतोया सरदसा ॥६३२।। अन्तर्जला खेयतोया बृहत्तोया स्रवज्जला । पञ्चविंशत्यादितो वै विज्ञेयास्ता रजस्वलाः ॥६३३।।