SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ३०४४ आङ्गिरसस्मृतिः तच्चापि वैष्णवं धाम तत्क्षणात्प्रापितं भवेत् । त्रिरात्रफलदा नद्यः पुण्ये तदयनद्वये ॥६१३।। अर्धोदये महोदये चक्रिके ग्रहणे तथा । पद्मकापिलषष्ठयां वा पुनरन्येषु ताः पुनः ॥६१४।। विधिप्रयत्नरचिताऽवगाहनजपादिकैः । फलप्रदा हि सरितो न तथा जाह्नवी शिवा ॥१५॥ दर्शनस्पर्शनध्यानर्जन्तूनां जन्ममोचनी । तदुत्तरक्षणाद्गङ्गा तद्भार्गतनुसंभवा ॥६१६।। सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः । दिनत्रयमसंस्पृश्यास्तत्रादौ याः सरिद्वराः ॥६१७|| महानद्यः गोदावरी भीमरथी तुङ्गभद्रा च वेणिका । तापी पयोष्णी दिव्या स्युर्दक्षिणे तु सरिद्वराः ॥६१८॥ पावनी नर्मदा चैव यमुना च महानदी। सरस्वती विशोका च वितस्ता च तथा पुनः ॥११॥ दक्षिणायनकाले तु संप्राप्ते चावगाहनात् । परं त्रिदिनपर्यन्तं भवेयुस्ता रजस्वलाः ॥२०॥ न तु सा शम्भुसंबन्धान्नित्यशुद्धा प्रकीर्तिता। जाह्नवी सरितां मुख्या सर्वलोकैकपावनी ॥६२१।। लादनी पावनी कामा कामनीया कलावती । करका कलुषत्री या नागाश्चैतास्तुरीयकात् ॥६२२।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy