________________
उच्छिष्टादिश्राद्ध सप्तपवित्राणि ३०४३ नमोद्वादशसंयुक्त पठनीयं सकृत्किल । तावन्मात्रेण तत्कर्म परमं तृप्तिकारकम् ॥१०॥ अच्छिद्रं सद्गुणं साङ्ग विकलैकविवर्जितम् । प्रत्यवायकरहितं गयाश्राद्धशताधिकम् ॥६०४॥ भवत्येव न सन्देहस्तस्मात्तन्मन्त्रमुच्चरेत् ।
उच्छिष्टादि श्राद्ध सप्त पवित्राणि उच्छिष्ट शिवनिर्माल्यं वमनं प्रेतपर्पटम् ॥१०॥ श्राद्ध सप्त पवित्राणि दौहित्रः कुतपस्तिलाः । पयसो वत्सपीतत्वादुच्छिष्टमिति नाम तत् ॥६०६।। भगीरथप्रार्थनया तद्गङ्गात्यवलेपहा । तिरोधानं जटारण्ये कृत्वा तामधरद्यतः ॥६०७।। तन्निर्माल्यं ततो गङ्गा सा प्रीत्यै परमा स्मृता। सा नित्यशुद्धा तद्योगाद्गङ्गा पतितपावनी ॥६०८।। निर्दोषा सैव कथिता तद्भिन्ना सप्त याश्च ताः। . अशुद्धाश्च कदाचित्स्युः शिवाङ्गपतिता तु सा ॥१६॥ अत्यन्तैकपवित्रा हि नान्या वै तत्समा सरित् । तदीयोदकसंबन्धाद्यत्पित्र्यं कर्म तत्तु वै ॥१०॥ अपवित्रसहस्रभ्यो मुक्त सद्यो भविष्यति । पितरो नित्यतृप्रास्ते नष्प्रक्षुत्काः पितामहाः ॥६११।। पारमेश्वरसायुज्यं लभन्ते प्रपितामहाः । अप्यन्ये कुलजा एव स्युस्ते कुलसहस्रकम् ॥१२॥