________________
श्राद्ध निमन्त्रित ब्राह्मणपूजावर्णनम् ३०४१ तेषां शङ्कानिरासाय मासिकेष्वङ्गतर्पणम् । श्राद्धान्ते विधिना कार्य सद्य एव न संशयः ॥८८२॥ प्रतिमासं तदा दर्श यच्छ्राद्ध तर्पणादिकम् । असंशयं प्रकुर्वीत न चेदोषो महान् भवेत् ॥८८३।। श्राद्धभुक्तः परं तेषां द्विजानां करशुद्धये । तिलहस्तोदकं कायं षड्वारं दर्भपुञ्जतः ॥८८४|| न चेत्तत्करशुद्धिश्च न भवेदेव केवलम् । मद्गोत्रं वर्धतां देव पितृणां च प्रसादतः ।।८८।। इति ब्राह्मणपादेषु सपर्या तां तदाचरेत् । विश्वेदेवप्रसादं च पितृणां च प्रसादकम् ॥८८६।। स्वीकृत्य शिरसा गृह्य देवाश्च पितरस्ततः। स्वस्ति व्रतेति वाचोक्त्वा ह्यक्षयोदकमित्यपि ॥८८७|| अस्त्वित्यपि च तद्धस्ते शम्बरं सतिलाक्षतम् । यथाक्रमेण दद्याच वाचयिष्ये स्वधां तथा ॥८८८॥ स्वाहामपि च संप्रार्थ्य वाच्यतामिति तस्ततः। संप्रोक्तस्तु ऋचे त्वेति धारां तां प्रवदेत्पराम् ॥८८६।। पितृभ्यश्च पथमतः पितामहेभ्य एव च । प्रपितामहेभ्यश्च तद्वत स्वधास्ता वाच्यतामिति ॥८६०|| त्रु वन्तु च भवन्तो वै ओं स्वधामिति वै वदेत् । संपद्यन्तां स्वधाश्चेति देवाश्चापि तथा पुनः ।।८६|| प्रीयन्तां पितरः पश्चापितामहास्ततः किल । प्रपितामहाश्च पितरस्तद्धस्ते सलिलं क्षिपेत् ॥८४२||
१६१