________________
३०४०
आङ्गिरसस्मृतिः श्राद्धशेषं न शूद्रभ्यो न दद्यात्तु खलेष्वपि ।
पितृभोजनपात्रस्य खननम् पितुरुच्छिष्टपात्राणि श्राद्ध गोप्यानि कारयेत् ॥८७४।। खनित्वैव विनिक्षिप्य यथा श्राद्ध न गोचरम् ।
सोदकुम्भम् कृतेऽकृते वा सापिण्ड्ये मातापित्रोः परस्य वा ॥८७५।। तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः । अदैवं पार्वणश्राद्ध सोदकुम्भमधर्मकम् ॥८७६।। कुर्यादाब्दिकपर्यन्तं संकल्पविधिनान्वहम् । कुर्यादहरहः श्राद्धममावास्यां विना सदा ॥८७७|| यत्सोदकलशश्राद्धं न कुर्यादनुमासिके।
प्रथमान्दे न तिलतर्पणम् प्रथमाब्दे न कर्तव्यं तिलतर्पणमित्यपि ॥८७८।।
सपिण्डीकरणात्परं श्राद्धाङ्गतर्पणम् यदेतत्तत्तु कथितं वत्सराटदे सपिण्डने । एकादशे द्वादशे वा सपिण्डीकरणं यदि ॥८७६।। कृतं चेत्तत्पुरं सम्यक् सद्यः श्राद्धाङ्गतर्पणम् । कुर्वीतैव तथा दर्श प्रतिमासं पृथक् पृथक् ॥८८०|| अकृते तर्पणे भूयः पितरस्तस्य केवलम् । भवेयुदु:खिता घोरं पुनः प्रेतत्वशङ्कया ॥८८१।।