SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ श्राद्धदिनशूद्रभोजनवर्णनम् ३०३६ अप्रत्यक्षा हि पितरो वायुरूपं समाश्रिताः। आकाशरूपमापन्नाः कालभेदेषु सन्ततम् ॥८६॥ नित्यमाकाशरूपास्ते श्राद्धकालेषु भक्तितः । समाहूतास्तदा सद्यो वायुरूपं समाश्रिताः ॥८६६॥ समायान्ति मनोवेगात्पिण्डकाले तु ते पुनः । तत्प्रविश्यैव पुत्राणां हिताय क्षणमञ्जसा ॥८६७॥ तिष्ठन्ति किल तत्पूजास्वीकाराय ततो यतन् । तत्पूजा विधिना कुर्यात्ततश्चेत्पुत्रकामुकः ॥८६॥ __ मध्यमपिण्डं परिमृज्य प्रयच्छेन्मध्यमं पिण्डं धर्मपत्न्यै समन्त्रकम् । आधत्त पितरश्चेति ततः सा नियता शुचिः ॥८६॥ प्रगृह्याञ्जलिना भक्त्या प्राङ्मुखी मौनमाश्रिता। तं प्राश्य विधिनाचम्य तत्पश्चात्तु त्रिरात्रकम् ॥८७०।। कुर्वन्ती भोजनं भतुर्भुक्तः पश्चात्सकृच्छुचिः। मुदिता हर्षितातीव दुःखिता मलिना तथा ॥८७१।। भावयन्ती महारुद्र तं कालं निनयेदपि । तावन्मात्रेण च ततः सा पुत्रं पुष्करस्रजम् ॥८७२।। लभते नात्र सन्देहो यदि सा स्याद्रजस्वला । श्राद्धदिने शूद्रभोजने न शूद्र भोजयेच्छ्राद्ध गृहे यत्नेन तद्दिने ॥८७३।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy